মূল বিষয়বস্তুতে যান
Ved Panchang
নির্ভুল বৈদিক জ্যোতিষ
হোম
পঞ্জিকা
ক্যালেন্ডার
মুহূর্ত
উৎসব
রাশিফল
ব্রত
যোগ
গ্রহ
জ্যোতিষ
দেবতা
পূজা বিধি
ভক্তি
শ্রী সুকটাম — Lyrics in Hindi & English | Panchang
হোম
›
ভক্তি
›
Stotram
›
শ্রী সুকটাম
শ্রী সুকটাম
দেবতা লক্ষ্মী
দেবনাগরী
লিপ্যন্তর
ইংরেজি অর্থ
॥ श्री सूक्तम् ॥ ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १ ॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २ ॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥ ३ ॥ काँसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥ ४ ॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥ ५ ॥ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६ ॥ उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥ ७ ॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥ ८ ॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ९ ॥ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १० ॥ ॥ इति श्री सूक्तम् सम्पूर्णम् ॥
পূর্ববর্তী
শঙ্কট মোচন হানুমান আস্তাক
পরবর্তী
পুরুষা সুকতাম
Back to স্তোত্রাম collection