मुख्य सामग्री पर जाएं
Ved Panchang
सटीक वैदिक ज्योतिष
मुख्य पृष्ठ
पंचांग
कैलेंडर
मुहूर्त
त्योहार
राशिफल
व्रत
योग
ग्रह
ज्योतिष
देवी-देवता
पूजा विधि
भक्ति
सौन्दर्य लहरी (प्रारंभिक छंद) — Lyrics in Hindi & English | Panchang
मुख्य पृष्ठ
›
भक्ति
›
Stotram
›
सौन्दर्य लहरी (प्रारंभिक छंद)
सौन्दर्य लहरी (प्रारंभिक छंद)
देवी त्रिपुरा सुन्दरी / पार्वती
देवनागरी
लिप्यंतरण
अंग्रेजी अर्थ
॥ सौन्दर्य लहरी ॥ (Adi Shankaracharya) शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरि-हर-विरिञ्च्यादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृत पुण्यः प्रभवति ॥ १ ॥ तनीयांसं पांशुं तव चरण पङ्केरुह भवं विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरः संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥ अविद्यानामन्त-स्तिमिर मिहिर द्वीप नगरी जडानां चैतन्य स्तबक मकरन्द स्रुति झरी । दरिद्राणां चिन्तामणि गुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवती ॥ ३ ॥ त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासि प्रकटित वरा भीत्यभिनया । भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥ हरिस्त्वामाराध्य प्रणत जन सौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयन लेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५ ॥ धनुः पौष्पं मौर्वी मधुकर-मयी पञ्च विशिखाः वसन्तः सामन्तो मलय-मरुदायोधन-रथः । तथाप्येकः सर्वं हिम-गिरि-सुते कामपि कृपाम् अपाङ्गात् ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥ ॥ इति श्री सौन्दर्य लहरी ॥
पिछला
भज गोविन्दम् (प्रारंभिक छंद)
अगला
मधुराष्टकम
स्तोत्रम् संग्रह पर वापस जाएँ