मुख्य सामग्रीमा जानुहोस्
Ved Panchang
सटीक वैदिक ज्योतिष
गृह पृष्ठ
पञ्चाङ्ग
पात्रो
मुहूर्त
चाडपर्व
राशिफल
व्रत
योग
ग्रह
ज्योतिष
देवीदेवता
पूजा विधि
भक्ति
कनकधरा स्टोट्राम (उपन) — Lyrics in Hindi & English | Panchang
गृह पृष्ठ
›
भक्ति
›
Stotram
›
कनकधरा स्टोट्राम (उपन)
कनकधरा स्टोट्राम (उपन)
देवी लक्ष्मी
देवनागरी
लिप्यन्तरण
अङ्ग्रेजी अर्थ
॥ श्री कनकधारा स्तोत्रम् ॥ (Adi Shankaracharya) वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलम् । अमन्दानन्दसन्दोह बन्धुरं सिन्धुरांङ्कनम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥ विश्वामरेन्द्रपदविभ्रमदानदक्षम् आनन्दहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्धम् इन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥ कालाम्बुदालिललितोरसि कैटभारे धाराधरे स्फुरति या तडिदङ्गनेव । मातुः समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५ ॥ प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालय कन्यकायाः ॥ ६ ॥ ॥ इति श्री शंकराचार्य विरचितं कनकधारास्तोत्रम् ॥
अघिल्लो
शिवमहिन स्टोट्राम (उपन)
अर्को
भजा गोविन्दम (प्रवेशको पद)
Back to स्टोटराम collection