ମୁଖ୍ୟ ବିଷୟବସ୍ତୁକୁ ଯାଆନ୍ତୁ
Ved Panchang
ସଠିକ ବୈଦିକ ଜ୍ୟୋତିଷ
ହୋମ
ପଞ୍ଜିକା
କ୍ୟାଲେଣ୍ଡର
ମୁହୂର୍ତ୍ତ
ପର୍ବ
ରାଶିଫଳ
ବ୍ରତ
ଯୋଗ
ଗ୍ରହ
ଜ୍ୟୋତିଷ
ଦେବତା
ପୂଜା ବିଧି
ଭକ୍ତି
ଭାଜା ଗୋବିନ୍ଦମ (ଆରମ୍ଭିକ ପଦ) — Lyrics in Hindi & English | Panchang
ହୋମ
›
ଭକ୍ତି
›
Stotram
›
ଭାଜା ଗୋବିନ୍ଦମ (ଆରମ୍ଭିକ ପଦ)
ଭାଜା ଗୋବିନ୍ଦମ (ଆରମ୍ଭିକ ପଦ)
ଭଗବାନ ଗୋବିନ୍ଦ / ବିଷ୍ଣୁ
ଦେବନାଗରୀ
ଲିପ୍ୟନ୍ତରଣ
ଇଂରାଜୀ ଅର୍ଥ
॥ भज गोविन्दम् ॥ (Adi Shankaracharya) भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ् करणे ॥ १ ॥ मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निज कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ २ ॥ नारीस्तनभर नाभिनिवेशं मिथ्यामायामोहावेशम् । एतन्मांसवसादि विकारं मनसि विचारय वारं वारम् ॥ ३ ॥ नलिनीदलगत जलमतितरलं तद्वज्जीवितमतिशय चपलम् । विद्धि व्याध्यभिमान ग्रस्तं लोकं शोकहतं च समस्तम् ॥ ४ ॥ यावद्वित्तोपार्जन सक्तः तावन्निजपरिवारो रक्तः । पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे ॥ ५ ॥ यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥ ६ ॥ बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परमे ब्रह्मणि कोऽपि न सक्तः ॥ ७ ॥ का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भ्रातः ॥ ८ ॥ सत्सङ्गत्वे निस्सङ्गत्वं निस्सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९ ॥ कामं क्रोधं लोभं मोहं त्यक्त्वात्मानं पश्यति सोऽहम् । आत्मज्ञान विहीना मूढाः ते पच्यन्ते नरक निगूढाः ॥ १० ॥
ପୂର୍ବ
Kanakadhara ଷ୍ଟୋଟ୍ରମ (ଉଦଘାଟନ)
ପରବର୍ତ୍ତୀ
ସୌନ୍ଦର୍ଯ୍ୟ ଲାହରୀ (ଆରମ୍ଭିକ ପଦ)
Back to ଷ୍ଟୋଟ୍ରାମ collection