ਮੁੱਖ ਸਮੱਗਰੀ ਤੇ ਜਾਓ
Ved Panchang
ਸਟੀਕ ਵੈਦਿਕ ਜੋਤਿਸ਼
ਘਰ
ਪੰਚਾਂਗ
ਕੈਲੰਡਰ
ਮੁਹੂਰਤ
ਤਿਉਹਾਰ
ਰਾਸ਼ੀਫਲ
ਵਰਤ
ਯੋਗ
ਗ੍ਰਹਿ
ਜੋਤਿਸ਼
ਦੇਵਤੇ
ਪੂਜਾ ਵਿਧੀ
ਭਗਤੀ
ਮਧੁਰਾਸ਼ਟਾਕਮ — Lyrics in Hindi & English | Panchang
ਘਰ
›
ਭਗਤੀ
›
Stotram
›
ਮਧੁਰਾਸ਼ਟਾਕਮ
ਮਧੁਰਾਸ਼ਟਾਕਮ
ਭਗਵਾਨ ਕ੍ਰਿਸ਼ਨ
ਦੇਵਨਾਗਰੀ
ਲਿਪੀਅੰਤਰਣ
ਅੰਗਰੇਜ਼ੀ ਅਰਥ
॥ मधुराष्टकम् ॥ (Sri Vallabhacharya) अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ १ ॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ २ ॥ वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ३ ॥ गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ४ ॥ करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् । वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ५ ॥ गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा । सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ६ ॥ गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् । दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ७ ॥ गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा । दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ८ ॥ ॥ इति श्रीमद्वल्लभाचार्य विरचितं मधुराष्टकम् सम्पूर्णम् ॥
ਪਿਛਲਾ
ਸੁੰਦਰੀਆ ਲਾਹਰੀ (ਆਖਰੀ ਆਇਤਾਂ)
ਅਗਲਾ
ਭਾਗਵਦ ਗੀਤਾ ਅਧਿਆਇ 12 ਭਗਤਯੋਗ (ਭਗਤੀ ਦਾ ਯੋਗ)
Back to ਸਤੋਤਰਾਮ collection